२.३२.१८

क्रीडितस्त्वेष नः पुत्रान्बालानुद्भ्रान्तचेतनः ।
सरय्वां प्रक्षिपन्मौर्ख्यादतुलां प्रीतिमश्नुते ॥

अन्वयः

उद्भ्रान्तचेतनः with an insane mind, एषः this one, क्रीडतः while playing, बालान् young ones, नः our, पुत्रान् sons, सरय्वाम् in Sarayu river, प्रक्षिपन् while throwing, मौर्ख्यात् in his insanity, अतुलाम् incomparable, प्रीतिम् pleasure, अश्नुते deriving.

Summary

That insane (Asamanjasa) while throwing our children who were playing around into Sarayu river in his insanity derived incomparable pleasure'.

पदच्छेदः

क्रीडितस्क्रीडित (√क्रीड् + क्त, १.१)
त्व्तु (अव्ययः)
एषएतद् (१.१)
नःमद् (६.३)
पुत्रान्पुत्र (२.३)
बालान्बाल (२.३)
उद्भ्रान्तचेतनःउद्भ्रान्त (√उत्-भ्रम् + क्त)–चेतना (१.१)
सरय्वांसरयू (७.१)
प्रक्षिपन्प्रक्षिपत् (√प्र-क्षिप् + शतृ, १.१)
मौर्ख्याद्मौर्ख्य (५.१)
अतुलांअतुल (२.१)
प्रीतिम्प्रीति (२.१)
अश्नुतेअश्नुते (√अश् लट् प्र.पु. एक.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

क्रीडि स्त्वे नः पु त्रा
न्बा ला नु द्भ्रान्त चे नः
य्वां प्रक्षि न्मौ र्ख्या
तु लां प्रीतिश्नु ते