२.३२.२०

इत्येवमत्यजद्राजा सगरो वै सुधार्मिकः ।
रामः किमकरोत्पापं येनैवमुपरुध्यते ॥

अन्वयः

सुधार्मिकः highly righteous, सगरः राजा king Sagara, इति thus, एनम् him, अत्यजत् abandoned, रामः Rama, किं पापम् what sin, अकरोत् has committed, येन by which, एवम् this way, उपरुध्यते should be banished.

Summary

Highly righteous king Sagara thus banished his son. What sin has Rama committed to secure a similar banishment?

पदच्छेदः

इत्य्इति (अव्ययः)
एवम्एवम् (अव्ययः)
अत्यजद्अत्यजत् (√त्यज् लङ् प्र.पु. एक.)
राजाराजन् (१.१)
सगरोसगर (१.१)
वैवै (अव्ययः)
सुधार्मिकःसु (अव्ययः)–धार्मिक (१.१)
रामःराम (१.१)
किम् (२.१)
अकरोत्अकरोत् (√कृ लङ् प्र.पु. एक.)
पापंपाप (२.१)
येनैवम्यद् (३.१)–एवम् (अव्ययः)
उपरुध्यतेउपरुध्यते (√उप-रुध् प्र.पु. एक.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

त्येत्य द्रा जा
रो वैसु धार्मि कः
रा मःकि रो त्पा पं
ये नैमु रुध्य ते