२.३२.२१

श्रुत्वा तु सिद्धार्थवचो राजा श्रान्ततरस्वनः ।
शोकोपहतया वाचा कैकेयीमिदमब्रवीत् ॥

अन्वयः

सिद्धार्थवचः Siddhartha's words, श्रुत्वा having heard, राजा king, श्रान्ततरस्वनः in progressively failing voice, शोकोपहतया griefstricken, वाचा words, कैकेयीम् to Kaikeyi, इदम् these words, अब्रवीत् spoke.

Summary

Having heard Siddhartha, the king, stricken with grief, said to Kaikeyi in a gradually feeble voice.

पदच्छेदः

श्रुत्वाश्रुत्वा (√श्रु + क्त्वा)
तुतु (अव्ययः)
सिद्धार्थवचोसिद्धार्थ–वचस् (२.१)
राजाराजन् (१.१)
श्रान्ततरस्वनःश्रान्ततर–स्वन (१.१)
शोकोपहतयाशोक–उपहत (√उप-हन् + क्त, ३.१)
वाचावाच् (३.१)
कैकेयीम्कैकेयी (२.१)
इदम्इदम् (२.१)
अब्रवीत्अब्रवीत् (√ब्रू लङ् प्र.पु. एक.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

श्रु त्वातु सि द्धार्थ चो
रा जा श्रान्तस्व नः
शो को या वा चा
कै के यीमिब्र वीत्