२.३२.२२

अनुव्रजिष्याम्यहमद्य रामं; राज्यं परित्यज्य सुखं धनं च ।
सहैव राज्ञा भरतेन च त्वं; यथा सुखं भुङ्क्ष्व चिराय राज्यम् ॥

अन्वयः

अहम् I, राज्यम् kingdom, सुखम् comfort, धनं च wealth, परित्यज्य forsaking, अद्य today, रामम् Rama, अनुव्रजिष्यामि shall follow, त्वम् you, राज्ञा with the king, भरतेन सहैव along with Bharata, यथासुखम् happily, चिराय for a long time, राज्यम् kingdom, भुङ्क्ष्व enjoy.

Summary

Abandoning this kingdom, these comforts and this wealth, I shall follow Rama. Enjoy the kingdom for a long time happily along with king Bharata.इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अयोध्याकाण्डे षट्त्रिंशस्सर्गः॥Thus ends the thirtysixth sarga of Ayodhyakanda of the holy Ramayana, the first epic composed by sage Valmiki.

पदच्छेदः

अनुव्रजिष्याम्य्अनुव्रजिष्यामि (√अनु-व्रज् लृट् उ.पु. )
अहम्मद् (१.१)
अद्यअद्य (अव्ययः)
रामंराम (२.१)
राज्यंराज्य (२.१)
परित्यज्यपरित्यज्य (√परि-त्यज् + ल्यप्)
सुखंसुख (२.१)
धनंधन (२.१)
(अव्ययः)
सहैवसह (अव्ययः)–एव (अव्ययः)
राज्ञाराजन् (३.१)
भरतेनभरत (३.१)
(अव्ययः)
त्वंत्वद् (१.१)
यथासुखंयथासुखम् (अव्ययः)
भुङ्क्ष्वभुङ्क्ष्व (√भुज् लोट् म.पु. )
चिरायचिराय (अव्ययः)
राज्यम्राज्य (२.१)

छन्दः

उपजातिः [११]

छन्दोविश्लेषणम्

१०११
नुव्र जि ष्याम्यद्य रा मं
रा ज्यं रि त्यज्यसु खं नं
है रा ज्ञा ते त्वं
थासु खं भुङ्क्ष्वचि रा रा ज्यम्