२.३२.५

निघ्नन्मृगान्कुञ्जरांश्च पिबंश्चारण्यकं मधु ।
नदीश्च विविधाः पश्यन्न राज्यं संस्मरिष्यति ॥

अन्वयः

मृगान् antelopes, कुञ्जरांश्च elephants, निघ्नन् while slaying, आरण्यकम् available in the forest, मधु honey, पिबंश्च while drinking, विविधाः several, नदीश्च rivers, पश्यन् while beholding, राज्यस्य of kingdom, न स्मरिष्यति he will not recollect.

Summary

Hunting the elephants and antelopes, drinking forest honey, beholding several rivers on the way, Rama will not recollect the kingdom.

पदच्छेदः

निघ्नन्निघ्नत् (√नि-हन् + शतृ, १.१)
मृगान्मृग (२.३)
कुञ्जरांश्कुञ्जर (२.३)
(अव्ययः)
पिबंश्पिबत् (√पा + शतृ, १.१)
चारण्यकं (अव्ययः)–आरण्यक (२.१)
मधुमधु (२.१)
नदीश्नदी (२.३)
(अव्ययः)
विविधाःविविध (२.३)
पश्यन्पश्यत् (√दृश् + शतृ, १.१)
(अव्ययः)
राज्यंराज्य (२.१)
संस्मरिष्यतिसंस्मरिष्यति (√सम्-स्मृ लृट् प्र.पु. एक.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

नि घ्नन्मृ गा न्कुञ्ज रांश्च
पि बं श्चाण्य कंधु
दीश्चविवि धाःश्य
न्न रा ज्यं संस्म रिष्यति