२.३३.१२

तस्यास्तत्क्षिप्रमागम्य रामो धर्मभृतां वरः ।
चीरं बबन्ध सीतायाः कौशेयस्योपरि स्वयम् ॥

अन्वयः

धर्मभृताम् among protectors of righteousness, वरः foremost, रामः Rama, क्षिप्रम् quickly, आगम्य having come forward, तत् चीरम् that bark garment, तस्याः सीतायाः Sita's, कौशेयस्य silk garment's, उपरि upon, स्वयम् himself, बबन्ध fastened.

Summary

Rama, foremost among protectors of righteousness, came forward quickly and fastened the bark himself over her silk garment.

पदच्छेदः

तस्यास्तद् (६.१)
तत्तद् (२.१)
क्षिप्रम्क्षिप्रम् (अव्ययः)
आगम्यआगम्य (√आ-गम् + ल्यप्)
रामोराम (१.१)
धर्मभृतांधर्म–भृत् (६.३)
वरःवर (१.१)
चीरंचीर (२.१)
बबन्धबबन्ध (√बन्ध् लिट् प्र.पु. एक.)
सीतायाःसीता (६.१)
कौशेयस्योपरिकौशेय (६.१)–उपरि (अव्ययः)
स्वयम्स्वयम् (अव्ययः)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

स्या स्त त्क्षिप्र माम्य
रा मोर्मभृ तां रः
ची रंन्ध सी ता याः
कौ शे स्यो रिस्व यम्