२.३३.३

यो हि दत्त्वा द्विपश्रेष्ठं कक्ष्यायां कुरुते मनः ।
रज्जुस्नेहेन किं तस्य त्यजतः कुञ्जरोत्तमम् ॥

अन्वयः

यः such a man, द्विपश्रेष्ठम् best of elephants, दत्त्वा having given away, कक्ष्यायाम् rope tied to its girth, मनः mind, कुरुते will do, कुञ्जरोत्तमम् best elephant, त्यजतः of a man while giving up, तस्य his, रज्जुस्नेहेन for attachment for the rope, किम् why?

Summary

Having given away the best of elephants, will any one be interested in the rope tied to its girth? Why should one have any attachment for the rope after he has given up the elephant?

पदच्छेदः

योयद् (१.१)
हिहि (अव्ययः)
दत्त्वादत्त्वा (√दा + क्त्वा)
द्विपश्रेष्ठंद्विप–श्रेष्ठ (२.१)
कक्ष्यायांकक्ष्या (७.१)
कुरुतेकुरुते (√कृ लट् प्र.पु. एक.)
मनःमनस् (२.१)
रज्जुस्नेहेनरज्जु–स्नेह (३.१)
किं (१.१)
तस्यतद् (६.१)
त्यजतःत्यजत् (√त्यज् + शतृ, ६.१)
कुञ्जरोत्तमम्कुञ्जर–उत्तम (२.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

योहि त्त्वाद्वि श्रे ष्ठं
क्ष्या यांकुरु ते नः
ज्जु स्ने हे किंस्य
त्य तः कुञ्ज रोत्त मम्