२.३४.१०

औपवाह्यं रथं युक्त्वा त्वमायाहि हयोत्तमैः ।
प्रापयैनं महाभागमितो जनपदात्परम् ॥

अन्वयः

त्वम् you, औपवाह्यम् suitable for the journey, रथम् chariot, हयोत्तमैः with finest horses, युक्त्वा having harnessed, आयाहि you shall come, एनम् this, महाभागम् magnanimous, इतः from here, जनपदात् this city, परम् place situated outside, प्रापय reach.

Summary

Harness the finest horses to the chariot suitable for the journey, drive this magnanimous Rama to a place outside the city, and come back.

पदच्छेदः

औपवाह्यंऔपवाह्य (२.१)
रथंरथ (२.१)
युक्त्वायुक्त्वा (√युज् + क्त्वा)
त्वम्त्वद् (१.१)
आयाहिआयाहि (√आ-या लोट् म.पु. )
हयोत्तमैःहय–उत्तम (३.३)
प्रापयैनंप्रापय (√प्र-आपय् लोट् म.पु. )–एनद् (२.१)
महाभागम्महाभाग (२.१)
इतोइतस् (अव्ययः)
जनपदात्जनपद (५.१)
परम्परम् (अव्ययः)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

वा ह्यं थं यु क्त्वा
त्व मा याहि योत्त मैः
प्रा यै नं हा भा
मि तो दात्प रम्