२.३४.१२

राज्ञो वचनमाज्ञाय सुमन्त्रः शीघ्रविक्रमः ।
योजयित्वाययौ तत्र रथमश्वैरलंकृतम् ॥

अन्वयः

राज्ञः the king's, वचनम् words, आज्ञाय having known, सुमन्त्रः Sumantra, शीघ्रविक्रमः of swift steps, अलङ्कृतम् decorated, रथम् chariot, अश्वैः with horses, योजयित्वा yoked, तत्र there, आययौ came.

Summary

In obedience to the words of the king, Sumantra promptly harnessed the horses to a welldecorated chariot and brought it there.

पदच्छेदः

राज्ञोराजन् (६.१)
वचनम्वचन (२.१)
आज्ञायआज्ञाय (√आ-ज्ञा + ल्यप्)
सुमन्त्रःसुमन्त्र (१.१)
शीघ्रविक्रमःशीघ्र–विक्रम (१.१)
योजयित्वाययौयोजयित्वा (√योजय् + क्त्वा)–आययौ (√आ-या लिट् प्र.पु. एक.)
तत्रतत्र (अव्ययः)
रथम्रथ (२.१)
अश्वैर्अश्व (३.३)
अलंकृतम्अलंकृत (√अलम्-कृ + क्त, २.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

रा ज्ञो मा ज्ञा
सु न्त्रः शीघ्र विक्र मः
यो यि त्वा यौत्र
श्वै लंकृ तम्