२.३४.१३

तं रथं राजपुत्राय सूतः कनकभूषितम् ।
आचचक्षेऽञ्जलिं कृत्वा युक्तं परमवाजिभिः ॥

अन्वयः

सूतः the charioteer (Sumantra), अञ्जलिं कृत्वा with folded palms, राजपुत्राय the king's son, कनकभूषितम् decked in gold, परमवाजिभिः with excellent horses, युक्तम् harnessed, तं रथम् that chariot, आचचक्षे informed.

Summary

With folded palms Sumantra informed the prince that a chariot, decked in gold and harnessed with excellent horses, is ready.

पदच्छेदः

तंतद् (२.१)
रथंरथ (२.१)
राजपुत्रायराजन्–पुत्र (४.१)
सूतःसूत (१.१)
कनकभूषितम्कनक–भूषित (√भूषय् + क्त, २.१)
आचचक्षेआचचक्षे (√आ-चक्ष् लिट् प्र.पु. एक.)
ऽञ्जलिंअञ्जलि (२.१)
कृत्वाकृत्वा (√कृ + क्त्वा)
युक्तंयुक्त (√युज् + क्त, २.१)
परमवाजिभिःपरम–वाजिन् (३.३)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

तं थं रा पु त्रा
सू तः भूषि तम्
क्षेऽञ्ज लिं कृ त्वा
यु क्तं वाजि भिः