२.३४.२६

मितं ददाति हि पिता मितं माता मितं सुतः ।
अमितस्य हि दातारं भर्तारं का न पूजयेत् ॥

अन्वयः

पिता father, मितम् to a limited extent, ददाति हि gives, माता mother, सुतः son, अमितस्य unlimited extent, दातारम् giver, भर्तारम् husband, न पूजयेत् who will not worship?

Summary

While the happiness that the father, mother and son give is limited, a husband gives unlimited happiness. Which wife will not worship such a husband?

पदच्छेदः

मितंमित (२.१)
ददातिददाति (√दा लट् प्र.पु. एक.)
हिहि (अव्ययः)
पितापितृ (१.१)
मितंमित (२.१)
मातामातृ (१.१)
मितंमित (२.१)
सुतःसुत (१.१)
अमितस्यअमित (६.१)
हिहि (अव्ययः)
दातारंदातृ (२.१)
भर्तारंभर्तृ (२.१)
का (१.१)
(अव्ययः)
पूजयेत्पूजयेत् (√पूजय् विधिलिङ् प्र.पु. एक.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

मि तं दातिहिपि ता
मि तं मा तामि तंसु तः
मिस्यहि दा ता रं
र्ता रं का पू येत्