२.३४.२९

तां प्राञ्जलिरभिक्रम्य मातृमध्येऽतिसत्कृताम् ।
रामः परमधर्मज्ञो मातरं वाक्यमब्रवीत् ॥

अन्वयः

परमधर्मात्मा extremely virtuous, रामः Rama, मातृमध्ये in the midst of his mothers, अतिसत्कृताम् highly revered lady, ताम् that, मातरम् to mother (Kausalya), प्राञ्जलिः with folded hands, अभिक्रम्य having approached, वाक्यम् words, अब्रवीत् said.

Summary

Most virtuous Rama approached his mother, that highly revered lady among all his mothers, and with folded hands said:

पदच्छेदः

तांतद् (२.१)
प्राञ्जलिर्प्राञ्जलि (१.१)
अभिक्रम्यअभिक्रम्य (√अभि-क्रम् + ल्यप्)
मातृमध्येमातृ–मध्ये (अव्ययः)
ऽतिसत्कृताम्अति (अव्ययः)–सत्कृत (√सत्-कृ + क्त, २.१)
रामःराम (१.१)
परमधर्मज्ञोपरम–धर्म–ज्ञ (१.१)
मातरंमातृ (२.१)
वाक्यम्वाक्य (२.१)
अब्रवीत्अब्रवीत् (√ब्रू लङ् प्र.पु. एक.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

तां प्राञ्जलि भि क्रम्य
मातृ ध्येऽतित्कृ ताम्
रा मः र्म ज्ञो
मा रं वाक्यब्र वीत्