२.३४.३१

सुप्तायास्ते गमिष्यन्ति नववर्षाणि पञ्च च ।
सा समग्रमिह प्राप्तं मां द्रक्ष्यसि सुहृद्वृतम् ॥

अन्वयः

ते you, सुप्तायाः while asleep, नव पञ्च च nine plus five (fourteen), वर्षाणि years, गमिष्यन्ति will pass off, सा you, इह here, (सम्) प्राप्तम् have arrived, सुहृद्वृतम् surrounded by my friends, समग्रम् completely, माम् me, द्रक्ष्यसि will see.

Summary

Fourteen years will pass off like a night's sleep. You will see me come home safe and sound, surrounded by my friends.

पदच्छेदः

सुप्तायास्सुप्त (√स्वप् + क्त, ६.१)
तेत्वद् (६.१)
गमिष्यन्तिगमिष्यन्ति (√गम् लृट् प्र.पु. बहु.)
नववर्षाणिनवन्–वर्ष (१.३)
पञ्चपञ्चन् (१.३)
(अव्ययः)
सातद् (१.१)
समग्रम्समग्र (२.१)
इहइह (अव्ययः)
प्राप्तंप्राप्त (√प्र-आप् + क्त, २.१)
मांमद् (२.१)
द्रक्ष्यसिद्रक्ष्यसि (√दृश् लृट् म.पु. )
सुहृद्वृतम्सुहृद्–वृत (√वृ + क्त, २.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

सु प्ता या स्ते मि ष्यन्ति
र्षाणिञ्च
साग्रमि प्रा प्तं
मां द्रक्ष्यसिसु हृद्वृ तम्