२.३४.३२

एतावदभिनीतार्थमुक्त्वा स जननीं वचः ।
त्रयः शतशतार्धा हि ददर्शावेक्ष्य मातरः ॥

अन्वयः

सः he, अभिनीतार्थम् with highly polished meaning, एतावत् up to this extent, वचः words, उक्त्वा having spoken, आवेक्ष्य after looking at them, त्रयः three, त्रयश्शतशतार्धा: three hundred and fifty, मातरः च mothers, ददर्श he saw.

Summary

Speaking thus to his mother with highly polished words, he then turned his gaze at his other three hundred and fifty mothers.

पदच्छेदः

एतावद्एतावत् (२.१)
अभिनीतार्थम्अभिनीत (√अभि-नी + क्त)–अर्थ (२.१)
उक्त्वाउक्त्वा (√वच् + क्त्वा)
तद् (१.१)
जननींजननी (२.१)
वचःवचस् (२.१)
त्रयःत्रि (१.३)
शतशतार्धाशत–शतार्ध (२.३)
हिहि (अव्ययः)
ददर्शावेक्ष्यददर्श (√दृश् लिट् प्र.पु. एक.)–अवेक्ष्य (√अव-ईक्ष् + ल्यप्)
मातरःमातृ (१.३)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

ताभि नी तार्थ
मु क्त्वा नीं चः
त्र यः ता र्धाहि
र्शा वेक्ष्य मा रः