२.३४.३४

संवासात्परुषं किंचिदज्ञानाद्वापि यत्कृतम् ।
तन्मे समनुजानीत सर्वाश्चामन्त्रयामि वः ॥

अन्वयः

संवासात् by virtue of our living together, अज्ञानाद्वा or through ignorance, किञ्चित् even a little, यत् any, परुषम् harsh gesture, कृतम् has been done, मे to me, तत् that, समनुजानीत forgive, वः you, सर्वाः all, आमन्त्रयामि I am seeking leave of you.

Summary

If I have been harsh towards you, on account of our living together or through ignorance may you forgive me. I (now) seek leave of you all.

पदच्छेदः

संवासात्संवास (५.१)
परुषंपरुष (१.१)
किंचिद्कश्चित् (१.१)
अज्ञानाद्अज्ञान (५.१)
वापिवा (अव्ययः)–अपि (अव्ययः)
यत्यद् (१.१)
कृतम्कृत (√कृ + क्त, १.१)
तन्तद् (२.१)
मेमद् (४.१)
समनुजानीतसमनुजानीत (√समनु-ज्ञा लोट् म.पु. द्वि.)
सर्वाश्सर्व (२.३)
चामन्त्रयामि (अव्ययः)–आमन्त्रयामि (√आ-मन्त्रय् लट् उ.पु. )
वःत्वद् (२.३)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

सं वा सात्परु षं किंचि
ज्ञा ना द्वापित्कृ तम्
न्मेनु जा नी
र्वा श्चान्त्र यामि वः