२.३५.२३

महत्येषा हि ते सिद्धिरेष चाभ्युदयो महान् ।
एष स्वर्गस्य मार्गश्च यदेनमनुगच्छसि ।
एवं वदन्तस्ते सोढुं न शेकुर्बाष्पमागतम् ॥

अन्वयः

एनम् this Rama, अनुगच्छसि (इति) यत् the fact that you are following him, एषा that one, ते for you, महती great, सिध्दि: achievement, एषः this, महान् great, अभ्युदयः prosperity, एषः this one, स्वर्गस्य to heaven, मार्गश्च way.

Summary

The very fact that you are following Rama is a great achievement and a great fortune for you. This, in fact, is the way to heaven.

पदच्छेदः

महत्य्महत् (१.१)
एषाएतद् (१.१)
हिहि (अव्ययः)
तेत्वद् (६.१)
सिद्धिर्सिद्धि (१.१)
एषएतद् (१.१)
चाभ्युदयो (अव्ययः)–अभ्युदय (१.१)
महान्महत् (१.१)
एषएतद् (१.१)
स्वर्गस्यस्वर्ग (६.१)
मार्गश्मार्ग (१.१)
(अव्ययः)
यद्यत् (अव्ययः)
एनम्एनद् (२.१)
अनुगच्छसिअनुगच्छसि (√अनु-गम् लट् म.पु. )
एवंएवम् (अव्ययः)
वदन्तस्वदत् (√वद् + शतृ, १.३)
तेतद् (१.३)
सोढुंसोढुम् (√सह् + तुमुन्)
(अव्ययः)
शेकुर्शेकुः (√शक् लिट् प्र.पु. बहु.)
बाष्पम्बाष्प (२.१)
आगतम्आगत (√आ-गम् + क्त, २.१)

छन्दः

उपजातिः [११]

छन्दोविश्लेषणम्

१०१११२
त्ये षाहि ते सिद्धि रे चाभ्यु
यो हान् स्व र्गस्य मा र्गश्च
देनुच्छसि वं
न्त स्ते सो ढुं शे कु र्बाष्प मा तम्