२.३५.२५

शुश्रुवे चाग्रतः स्त्रीणां रुदन्तीनां महास्वनः ।
यथा नादः करेणूनां बद्धे महति कुञ्जरे ॥

अन्वयः

अग्रतः in front of, रुदन्तीनाम् crying, स्त्रीणाम् of women, महास्वनः loud sound, महति when great, कुञ्जरे elephant, बद्धे when fastened, करेणूनाम् of female elephants, नादः यथा like a sound, शुश्रुवे heard.

Summary

He heard the women crying loudly in front like wailings of cowelephants when their bull elephant is captured.

पदच्छेदः

शुश्रुवेशुश्रुवे (√श्रु लिट् प्र.पु. एक.)
चाग्रतः (अव्ययः)–अग्रतस् (अव्ययः)
स्त्रीणांस्त्री (६.३)
रुदन्तीनांरुदत् (√रुद् + शतृ, ६.३)
महास्वनःमहत्–स्वन (१.१)
यथायथा (अव्ययः)
नादःनाद (१.१)
करेणूनांकरेणु (६.३)
बद्धेबद्ध (√बन्ध् + क्त, ७.१)
महतिमहत् (७.१)
कुञ्जरेकुञ्जर (७.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

शुश्रु वे चाग्र तः स्त्री णां
रु न्ती नां हास्व नः
था ना दः रे णू नां
द्धेति कुञ्ज रे