२.३५.२७

ततो हलहलाशब्दो जज्ञे रामस्य पृष्ठतः ।
नराणां प्रेक्ष्य राजानं सीदन्तं भृशदुःखितम् ॥

अन्वयः

ततः then, भृश दुःखितम् intensely grieved, सीदन्तम् enfeebled, राजानम् king, प्रेक्ष्य having seen, नराणाम् men's, हलहलाशब्दः a tumultous roar, रामस्य Rama's, पृष्ठतः behind, जज्ञे emanated.

Summary

When the people saw the king enfeebled by deep grief, they raised an uproar behind Rama's (chariot).

पदच्छेदः

ततोततस् (अव्ययः)
हलहलाशब्दोहलहला (अव्ययः)–शब्द (१.१)
जज्ञेजज्ञे (√जन् लिट् प्र.पु. एक.)
रामस्यराम (६.१)
पृष्ठतःपृष्ठतस् (अव्ययः)
नराणांनर (६.३)
प्रेक्ष्यप्रेक्ष्य (√प्र-ईक्ष् + ल्यप्)
राजानंराजन् (२.१)
सीदन्तंसीदत् (√सद् + शतृ, २.१)
भृशदुःखितम्भृश–दुःखित (२.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

तो ला ब्दो
ज्ञे रास्य पृष्ठ तः
रा णां प्रेक्ष्य रा जा नं
सी न्तंभृ दुःखि तम्