२.३५.३१

न हि तत्पुरुषव्याघ्रो दुःखदं दर्शनं पितुः ।
मातुश्च सहितुं शक्तस्तोत्रार्दित इव द्विपः ॥

अन्वयः

पुरुषव्याघ्रः tiger (best) among men, तोत्रार्दितः tormented by the goads, द्विपः इव like an elephant, दुःखदम् causing agony, पितुः father's, मातुश्च mother's, तत् दर्शनम् that sight, सहितुम् to endure, न शक्तः हि was not able.

Summary

Rama the best among men, could not, like an elephant tormented by the goad, endure that pitiful sight of his father and mother.

पदच्छेदः

(अव्ययः)
हिहि (अव्ययः)
तत्तद् (२.१)
पुरुषव्याघ्रोपुरुष–व्याघ्र (१.१)
दुःखदंदुःख–द (२.१)
दर्शनंदर्शन (२.१)
पितुःपितृ (६.१)
मातुश्मातृ (६.१)
(अव्ययः)
सहितुंसहितुम् (√सह् + तुमुन्)
शक्तस्शक्त (√शक् + क्त, १.१)
तोत्रार्दिततोत्र–अर्दित (√अर्दय् + क्त, १.१)
इवइव (अव्ययः)
द्विपःद्विप (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

हित्पुरु व्या घ्रो
दुः दंर्श नंपि तुः
मा तुश्चहि तुंक्त
स्तो त्रार्दिद्वि पः