२.३५.३५

रामस्य स वचः कुर्वन्ननुज्ञाप्य च तं जनम् ।
व्रजतोऽपि हयाञ्शीघ्रं चोदयामास सारथिः ॥

अन्वयः

स सारथिः charioteer, रामस्य Rama's, वचः words, कुर्वन् obeying, तम् जनम् that multitude of people, अनुज्ञाप्य having given permision (taking leave), व्रजतोऽपि even though moving, हयान् horses, शीघ्रम् with greater speed, चोदयामास hastened.

Summary

Obeying the command of Rama and after taking leave of the people, Sumantra hastened the horses although they were galloping.

पदच्छेदः

रामस्यराम (६.१)
तद् (१.१)
वचःवचस् (२.१)
कुर्वन्न्कुर्वत् (√कृ + शतृ, १.१)
अनुज्ञाप्यअनुज्ञाप्य (√अनु-ज्ञापय् + ल्यप्)
(अव्ययः)
तंतद् (२.१)
जनम्जन (२.१)
व्रजतोव्रजत् (√व्रज् + शतृ, २.३)
ऽपिअपि (अव्ययः)
हयाञ्हय (२.३)
शीघ्रंशीघ्रम् (अव्ययः)
चोदयामासचोदयामास (√चोदय् प्र.पु. एक.)
सारथिःसारथि (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

रास्य चः कुर्व
न्न नु ज्ञाप्य तं नम्
व्र तोऽपि या ञ्शी घ्रं
चो या मा सा थिः