२.३५.६

व्यसनी वा समृद्धो वा गतिरेष तवानघ ।
एष लोके सतां धर्मो यज्ज्येष्ठवशगो भवेत् ॥

अन्वयः

अनघ O sinless one, व्यसनी वा in adversity, समृद्धो वा or in prosperity, एषः this one, तव your, गतिः is refuge, ज्येष्ठवशगः following the eldest brother, भवेत् इति यत् if it happens, एषः this, लोके in this world, सताम् of virtuous men, धर्मः is the duty.

Summary

Rama is your refuge in times of adversity or prosperity, O sinless one To be obedient to the eldest (brother) is the duty of virtuous men in this world.

पदच्छेदः

व्यसनीव्यसनिन् (१.१)
वावा (अव्ययः)
समृद्धोसमृद्ध (√सम्-ऋध् + क्त, १.१)
वावा (अव्ययः)
गतिर्गति (१.१)
एषएतद् (१.१)
तवानघत्वद् (६.१)–अनघ (८.१)
एषएतद् (१.१)
लोकेलोक (७.१)
सतांसत् (√अस् + शतृ, ६.३)
धर्मोधर्म (१.१)
यज्यद् (१.१)
ज्येष्ठवशगोज्येष्ठ–वश–ग (१.१)
भवेत्भवेत् (√भू विधिलिङ् प्र.पु. एक.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

व्य नी वा मृ द्धो वा
ति रे वा
लो के तां र्मो
ज्ज्येष्ठ गो वेत्