२.३६.१०

त्रिशङ्कुर्लोहिताङ्गश्च बृहस्पतिबुधावपि ।
दारुणाः सोममभ्येत्य ग्रहाः सर्वे व्यवस्थिताः ॥

अन्वयः

त्रिशङ्कु: Trishanku, लोहिताङ्गश्च Mars, बृहस्पतिबुधावपि Jupiter as also Mercury, दारुणाः fierce aspect, सर्वे all, ग्रहाः planets, सोमम् Moon, अभ्येत्य approaching, व्यवस्थिताः remained.

Summary

The constellation Trishanku, the planets Mars, Jupiter, Mercury and other fierce planets took their position near the Moon.

पदच्छेदः

त्रिशङ्कुर्त्रिशङ्कु (१.१)
लोहिताङ्गश्लोहिताङ्ग (१.१)
(अव्ययः)
बृहस्पतिबुधाव्बृहस्पति–बुध (१.२)
अपिअपि (अव्ययः)
दारुणाःदारुण (१.३)
सोमम्सोम (२.१)
अभ्येत्यअभ्येत्य (√अभ्या-इ + ल्यप्)
ग्रहाःग्रह (१.३)
सर्वेसर्व (१.३)
व्यवस्थिताःव्यवस्थित (√व्यव-स्था + क्त, १.३)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

त्रि ङ्कु र्लोहि ता ङ्गश्च
बृस्पतिबु धापि
दारु णाः सो भ्येत्य
ग्र हाः र्वेव्यस्थि ताः