२.३६.३

न क्रुध्यत्यभिशस्तोऽपि क्रोधनीयानि वर्जयन् ।
क्रुद्धान्प्रसादयन्सर्वान्समदुःखः क्व गच्छति ॥

अन्वयः

अभिशप्तोऽपि even when denounced, न क्रुध्यति will not be angry, क्रोधनीयानि acts provoking wrath, वर्जयन् while abandoning, क्रुद्धान् those who were enraged, सर्वान् all of them, प्रसादयन् pacifies, समदुःखः sharing their sorrow, क्व where, गच्छति is going?

Summary

Rama who used to avoid deeds that caused anger, pacified those who were angry with him, and never lost his cool even when cursed, that Rama is going on exile today.

पदच्छेदः

(अव्ययः)
क्रुध्यत्य्क्रुध्यति (√क्रुध् लट् प्र.पु. एक.)
अभिशस्तोअभिशस्त (√अभि-शंस् + क्त, १.१)
ऽपिअपि (अव्ययः)
क्रोधनीयानिक्रोधनीय (√क्रुध् + अनीयर्, २.३)
वर्जयन्वर्जयत् (√वर्जय् + शतृ, १.१)
क्रुद्धान्क्रुद्ध (√क्रुध् + क्त, २.३)
प्रसादयन्प्रसादयत् (√प्र-सादय् + शतृ, १.१)
सर्वान्सर्व (२.३)
समदुःखःसम–दुःख (१.१)
क्वक्व (अव्ययः)
गच्छतिगच्छति (√गम् लट् प्र.पु. एक.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

क्रु ध्यत्यभि स्तोऽपि
क्रो नी यानिर्ज यन्
क्रु द्धान्प्र सा न्स र्वा
न्स दुः खःक्वच्छति