२.३७.१३

विललाप च दुःखार्तः प्रियं पुत्रमनुस्मरन् ।
नगरान्तमनुप्राप्तं बुद्ध्वा पुत्रमथाब्रवीत् ॥

अन्वयः

प्रियम् beloved, पुत्रम् son, अनुस्मरन् reflecting, दुःखार्तः tortured with sorrow, विललाप च lamented, अथ then, पुत्रम् son, नगरान्तम् end of the city, अनुप्राप्तम् havng reached, बुध्वा having realised, अब्रवीत् said.

M N Dutt

And stricken with grief, he lamented, remembering his beloved son, and thinking that by this time he had reached the precincts of the city, he broke out into the following.

Summary

The griefstricken king began to lament thinking of his beloved son, and (suddenly) realizing that his son had crossed the limits of the city, said:

पदच्छेदः

विललापविललाप (√वि-लप् लिट् प्र.पु. एक.)
(अव्ययः)
दुःखार्तःदुःख–आर्त (१.१)
प्रियंप्रिय (२.१)
पुत्रम्पुत्र (२.१)
अनुस्मरन्अनुस्मरत् (√अनु-स्मृ + शतृ, १.१)
नगरान्तम्नगर–अन्त (२.१)
अनुप्राप्तंअनुप्राप्त (√अनुप्र-आप् + क्त, २.१)
बुद्ध्वाबुद्ध्वा (√बुध् + क्त्वा)
पुत्रम्पुत्र (२.१)
अथाब्रवीत्अथ (अव्ययः)–अब्रवीत् (√ब्रू लङ् प्र.पु. एक.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

वि ला दुः खा र्तः
प्रि यं पुत्र नुस्म रन्
रान्त नु प्रा प्तं
बु द्ध्वा पुत्र थाब्र वीत्