२.३७.९

भरतश्चेत्प्रतीतः स्याद्राज्यं प्राप्येदमव्ययम् ।
यन्मे स दद्यात्पित्रर्थं मा मा तद्दत्तमागमत् ॥

अन्वयः

अव्ययम् imperishable, (इदं) राज्यम् this kingdom, प्राप्य having secured, भरतः Bharata, प्रतीतः स्यात् चेत् if he is pleased, सः he, पित्रर्थम् in the form of funeral offerings, मे to me, यत् which, दद्यात् gives, तद्दत्तम् given by him, माम् me, मागमत् may it not reach.

M N Dutt

If Bharata is satisfied with receiving this entire kingdom, let not what he spends on account of my funeral obsequies find its way to me.

Summary

If Bharata feels pleased to secure this imperishable kingdom, then may his obsequial offerings at my funeral not reach me

पदच्छेदः

भरतश्भरत (१.१)
चेत्चेद् (अव्ययः)
प्रतीतःप्रतीत (√प्रति-इ + क्त, १.१)
स्याद्स्यात् (√अस् विधिलिङ् प्र.पु. एक.)
राज्यंराज्य (२.१)
प्राप्येदम्प्राप्य (√प्र-आप् + ल्यप्)–इदम् (२.१)
अव्ययम्अव्यय (२.१)
यन्यद् (२.१)
मेमद् (४.१)
तद् (१.१)
दद्यात्दद्यात् (√दा विधिलिङ् प्र.पु. एक.)
पित्रर्थंपितृ–अर्थ (२.१)
मामा (अव्ययः)
मामद् (२.१)
तद्तद् (१.१)
दत्तम्दत्त (√दा + क्त, १.१)
आगमत्आगमत् (√आ-गम् प्र.पु. एक.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

श्चेत्प्र ती तः स्या
द्रा ज्यं प्रा प्येव्य यम्
न्मे द्या त्पि त्र र्थं
मा मा द्दत्त मा मत्