२.३८.१२

कदायोध्यां महाबाहुः पुरीं वीरः प्रवेक्ष्यति ।
पुरस्कृत्य रथे सीतां वृषभो गोवधूमिव ॥

अन्वयः

महाबाहुः mightyarmed, वीरः hero, वृषभः bull, गोवधूमिव like cow, सीताम् Sita, रथे on the chariot, पुरस्कृत्य placing in front, अयोध्यां पुरीम् to the city of Ayodhya, कदा when, प्रवेक्ष्यति will enter?

M N Dutt

When will the mighty-armed hero enter the city of Ayodhyā, placing Sītā before him on the car, like to a bull having his bovine mate before him?

Summary

When will the mightyarmed hero (Rama) enter the city of Ayodhya with Sita in front in the chariot, like a bull following the cow?

पदच्छेदः

कदायोध्यांकदा (अव्ययः)–अयोध्या (२.१)
महाबाहुःमहत्–बाहु (१.१)
पुरींपुरी (२.१)
वीरःवीर (१.१)
प्रवेक्ष्यतिप्रवेक्ष्यति (√प्र-विश् लृट् प्र.पु. एक.)
पुरस्कृत्यपुरस्कृत्य (√पुरस्-कृ + ल्यप्)
रथेरथ (७.१)
सीतांसीता (२.१)
वृषभोवृषभ (१.१)
गोवधूम्गो–वधू (२.१)
इवइव (अव्ययः)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

दा यो ध्यां हा बा हुः
पु रीं वी रःप्र वेक्ष्यति
पु स्कृत्य थे सी तां
वृ भो गो धूमि