२.३८.१६

निःसंशयं मया मन्ये पुरा वीर कदर्यया ।
पातु कामेषु वत्सेषु मातॄणां शातिताः स्तनाः ॥

अन्वयः

वीर O valiant one, कदर्यया out of avarice, मया by myself, निस्संशयम् undoubtedly, पुरा formerly, वत्सेषु calves, पातुकामेषु thirsting for milk, मातृ़णाम् of mothers, स्तनाः udders, शातिताः hacked by me.

M N Dutt

Doubtless, O hero, formerly of vile ways that I was, I had cut off the paps of kine and thus prevented their calves hungering after their mothers' milk, from drinking it.

Summary

O valiant one, in my previous birth I must have undoubtedly hacked off the udders of cows when the calves were thirsting for milk from their mothers.

पदच्छेदः

निःसंशयंनिःसंशय (२.१)
मयामद् (३.१)
मन्येमन्ये (√मन् लट् उ.पु. )
पुरापुरा (अव्ययः)
वीरवीर (८.१)
कदर्ययाकदर्य (३.१)
पातुपातु (√पा लोट् प्र.पु. एक.)
कामेषुकाम (७.३)
वत्सेषुवत्स (७.३)
मातॄणांमातृ (६.३)
शातिताःशातित (√शातय् + क्त, १.३)
स्तनाःस्तन (१.३)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

निः सं यं या न्ये
पु रा वीर्य या
पातु का मेषु त्सेषु
मा तॄ णां शाति ताःस्त नाः