२.३९.१

विलपन्तीं तथा तां तु कौसल्यां प्रमदोत्तमाम् ।
इदं धर्मे स्थिता धर्म्यं सुमित्रा वाक्यमब्रवीत् ॥

अन्वयः

धर्मे in virtues, स्थिता abiding, सुमित्रा Sumitra, तथा then, विलपन्तीम् lamenting, प्रमदोत्तमाम् best among women, तां कौशल्याम् to that Kausalya, धर्म्यम् conforming to righteousness, इदं वाक्यम् these words, अब्रवीत् said.

M N Dutt

As that best of ladies, Kausalyā, was thus lamenting, Sumitrā ever abiding in virtue, spoke to her these words consistent with righteousness.

Summary

While Kausalya, the best of women was thus lamenting, virtuous Sumitra spoke to her these righteous words:

पदच्छेदः

विलपन्तींविलपत् (√वि-लप् + शतृ, २.१)
तथातथा (अव्ययः)
तांतद् (२.१)
तुतु (अव्ययः)
कौसल्यांकौसल्या (२.१)
प्रमदोत्तमाम्प्रमदा–उत्तम (२.१)
इदंइदम् (२.१)
धर्मेधर्म (७.१)
स्थितास्थित (√स्था + क्त, १.१)
धर्म्यंधर्म्य (२.१)
सुमित्रासुमित्रा (१.१)
वाक्यम्वाक्य (२.१)
अब्रवीत्अब्रवीत् (√ब्रू लङ् प्र.पु. एक.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

वि न्तीं था तांतु
कौ ल्यांप्र दोत्त माम्
दं र्मेस्थि ता र्म्यं
सु मि त्रा वाक्यब्र वीत्