२.३९.१५

पुत्रस्ते वरदः क्षिप्रमयोध्यां पुनरागतः ।
कराभ्यां मृदुपीनाभ्यां चरणौ पीडयिष्यति ॥

अन्वयः

वरदः one who confers boons, ते पुत्रः your son, क्षिप्रम् soon, अयोध्याम् to Ayodhya, पुनः again, आगतः having returned, मृदुपीनाभ्याम् tender and plump, पाणिभ्याम् hands, चरणौ your feet, पीडयिष्यति will press.

M N Dutt

And soon will your son conferring boons, returning (to this place), press your feet with those soft and plump hands of his.

Summary

Your son, bestower of boons, will soon return to Ayodhya and press your feet with his soft, tender hands.

पदच्छेदः

पुत्रस्पुत्र (१.१)
तेत्वद् (६.१)
वरदःवर–द (१.१)
क्षिप्रम्क्षिप्रम् (अव्ययः)
अयोध्यांअयोध्या (२.१)
पुनर्पुनर् (अव्ययः)
आगतःआगत (√आ-गम् + क्त, १.१)
कराभ्यांकर (३.२)
मृदुपीनाभ्यांमृदु–पीन (३.२)
चरणौचरण (२.२)
पीडयिष्यतिपीडयिष्यति (√पीडय् लृट् प्र.पु. एक.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

पु त्र स्ते दः क्षिप्र
यो ध्यांपु रा तः
रा भ्यांमृदु पी ना भ्यां
णौ पी यिष्यति