२.४.१९

प्रायेण हि निमित्तानामीदृशानां समुद्भवे ।
राजा वा मृत्युमाप्नोति घोरां वापदमृच्छति ॥

अन्वयः

ईदृशानाम् when such, निमित्तानाम् of ominous signs, समुद्भवे appear, प्रायेण हि usually, राजा king, मृत्युम् death, आप्नोति meets, घोराम् grave, आपदं वा or calamity, ऋच्छति faces.

Summary

When such ominous signs appear, usually the king either meets with death or faces a grave calamity.

पदच्छेदः

प्रायेणप्रायेण (अव्ययः)
हिहि (अव्ययः)
निमित्तानाम्निमित्त (६.३)
ईदृशानांईदृश (६.३)
समुद्भवेसमुद्भव (७.१)
राजाराजन् (१.१)
वावा (अव्ययः)
मृत्युम्मृत्यु (२.१)
आप्नोतिआप्नोति (√आप् लट् प्र.पु. एक.)
घोरांघोर (२.१)
वापदम्वा (अव्ययः)–आपद् (२.१)
ऋच्छतिऋच्छति (√ऋछ् लट् प्र.पु. एक.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

प्रा येहिनि मि त्ता ना
मीदृ शा नां मुद्भ वे
रा जा वा मृत्यु मा प्नोति
घो रां वा मृच्छति