२.४.२०

तद्यावदेव मे चेतो न विमुह्यति राघव ।
तावदेवाभिषिञ्चस्व चला हि प्राणिनां मतिः ॥

अन्वयः

तत् so, राघव son of the Raghus (Rama), मे my, चेतः mind, यावदेव so long as, न विमु३ह्यति is not deluded, तावदेव till then, अभिषिञ्चस्व be consecrated, प्राणिनाम् men's, मतिः mind, चला हि is unstable indeed.

Summary

Therefore, before my mind is deluded I wish to see you installed as heirapparent for a man's mind is unstable indeed, O Rama.

पदच्छेदः

तद्तद् (२.१)
यावद्यावत् (अव्ययः)
एवएव (अव्ययः)
मेमद् (६.१)
चेतोचेतस् (१.१)
(अव्ययः)
विमुह्यतिविमुह्यति (√वि-मुह् लट् प्र.पु. एक.)
राघवराघव (८.१)
तावद्तावत् (अव्ययः)
एवाभिषिञ्चस्वएव (अव्ययः)–अभिषिञ्चस्व (√अभि-सिच् लोट् म.पु. )
चलाचल (१.१)
हिहि (अव्ययः)
प्राणिनांप्राणिन् (६.३)
मतिःमति (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

द्या दे मे चे तो
वि मुह्यति रा
ता दे वाभि षि ञ्चस्व
ला हि प्राणि नां तिः