२.४.२१

अद्य चन्द्रोऽभ्युपगतः पुष्यात्पूर्वं पुनर्वसुम् ।
श्वः पुष्य योगं नियतं वक्ष्यन्ते दैवचिन्तकाः ॥

अन्वयः

अद्य today, चन्द्रः Moon, पुष्यात् than star Pushya, पूर्वम् preceding, पुनर्वसू constellation Punarvasu, अभ्युपगतः entered, श्वः tomorrow, पुष्ययोगम् in conjuction with Pushya constellation, नियतम् certainly, दैवचिन्तकाः astrologers, वक्ष्यन्ते say

Summary

Today the Moon is in conjunction with the Punarvasu constellation. Tomorrow the Moon's conjunction with the Pushya constellation is certain and the astrologers say this auspicious time is highly suitable for the purpose of coronation.

पदच्छेदः

अद्यअद्य (अव्ययः)
चन्द्रोचन्द्र (१.१)
ऽभ्युपगतःअभ्युपगत (√अभ्युप-गम् + क्त, १.१)
पुष्यात्पुष्य (५.१)
पूर्वंपूर्व (२.१)
पुनर्पुनर् (अव्ययः)
वसुम्वसु (२.१)
श्वःश्वस् (अव्ययः)
पुष्ययोगंपुष्य–योग (२.१)
नियतंनियत (√नि-यम् + क्त, २.१)
वक्ष्यन्तेवक्ष्यन्ते (√वच् लृट् प्र.पु. बहु.)
दैवचिन्तकाःदैवचिन्तक (१.३)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

द्य न्द्रोऽभ्यु तः
पु ष्या त्पू र्वंपुर्व सुम्
श्वः पुष्य यो गंनि तं
क्ष्य न्ते दै चिन्त काः