२.४.२४

सुहृदश्चाप्रमत्तास्त्वां रक्षन्त्वद्य समन्ततः ।
भवन्ति बहुविघ्नानि कार्याण्येवंविधानि हि ॥

अन्वयः

अद्य today, सुहृदश्च your friends also, समन्ततः on all sides, अप्रमत्ताः vigilantly, त्वाम् you, रक्षन्तु protect, एवं विधानि of this sort, कार्याणि acts, बहुविघ्नानि many impediments, भवन्ति हि will happen, indeed.

Summary

Many impediments befall acts of this sort indeed. Alert your friends to protect you from all sides today onwards.

पदच्छेदः

सुहृदश्सुहृद् (१.३)
चाप्रमत्तास् (अव्ययः)–अप्रमत्त (१.३)
त्वांत्वद् (२.१)
रक्षन्त्व्रक्षन्तु (√रक्ष् लोट् प्र.पु. बहु.)
अद्यअद्य (अव्ययः)
समन्ततःसमन्ततः (अव्ययः)
भवन्तिभवन्ति (√भू लट् प्र.पु. बहु.)
बहुविघ्नानिबहु–विघ्न (१.३)
कार्याण्य्कार्य (१.३)
एवंविधानिएवंविध (१.३)
हिहि (अव्ययः)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

सुहृ श्चाप्र त्ता स्त्वां
क्ष न्त्वद्यन्त तः
न्तिहु वि घ्नानि
का र्या ण्ये वंवि धानिहि