२.४.२६

कामं खलु सतां वृत्ते भ्राता ते भरतः स्थितः ।
ज्येष्ठानुवर्ती धर्मात्मा सानुक्रोशो जितेन्द्रियः ॥

अन्वयः

ते your, भ्राता brother, भरतः Bharata, कामम् really, सतां वृत्ते on the path of the virtuous, स्थितः stayed, ज्येष्ठानुवर्ती follows his elder brother, धर्मात्मा righteous, सानुक्रोशः compassionate, जितेन्द्रियः has controlled his senses.

Summary

It is true, your brother Bharata has adhered to the path of the virtuous and has followed his elder brother. No doubt, he is righteous, compassionate and self controlled.

पदच्छेदः

कामंकामम् (अव्ययः)
खलुखलु (अव्ययः)
सतांसत् (६.३)
वृत्तेवृत्त (√वृत् + क्त, ७.१)
भ्राताभ्रातृ (१.१)
तेत्वद् (६.१)
भरतःभरत (१.१)
स्थितःस्थित (√स्था + क्त, १.१)
ज्येष्ठानुवर्तीज्येष्ठ–अनुवर्तिन् (१.१)
धर्मात्माधर्म–आत्मन् (१.१)
सानुक्रोशो (अव्ययः)–अनुक्रोश (१.१)
जितेन्द्रियःजित (√जि + क्त)–इन्द्रिय (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

का मंलु तां वृ त्ते
भ्रा ता ते तःस्थि तः
ज्ये ष्ठानु र्ती र्मा त्मा
सा नु क्रो शोजि तेन्द्रि यः