२.४.३२

तस्मिन्काले हि कौसल्या तस्थावामीलितेक्षणा ।
सुमित्रयान्वास्यमाना सीतया लक्ष्मणेन च ॥

अन्वयः

तस्मिन् काले at that moment, कौशल्या Kausalya, सुमित्रया by Sumitra, सीतया by Sita, लक्ष्मणेन च by Lakshmana, अन्वास्यमाना being accompanied, आमीलितेक्षणा with halfclosed eyes, तस्थौ stood.

Summary

At that moment Kausalya was meditating with her eyes halfclosed. Sumitra, Lakshmana and Sita were attending on her.

पदच्छेदः

तस्मिन्तद् (७.१)
कालेकाल (७.१)
हिहि (अव्ययः)
कौसल्याकौसल्या (१.१)
तस्थाव्तस्थौ (√स्था लिट् प्र.पु. एक.)
आमीलितेक्षणाआमीलित (√आ-मीलय् + क्त)–ईक्षण (१.१)
सुमित्रयान्वास्यमानासुमित्रा (३.१)–अन्वास्यमान (√अनु-आस् + शानच्, १.१)
सीतयासीता (३.१)
लक्ष्मणेनलक्ष्मण (३.१)
(अव्ययः)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

स्मि न्का लेहि कौ ल्या
स्था वा मीलि तेक्ष णा
सु मित्र या न्वास्य मा ना
सी याक्ष्म णे