२.४.३६

सीतयाप्युपवस्तव्या रजनीयं मया सह ।
एवमृत्विगुपाध्यायैः सह मामुक्तवान्पिता ॥

अन्वयः

इयम् this, रजनी night, सीतयापि Sita also, मया सह along with me, उपवस्तव्या will fast, एवम् thus, ऋत्विगुपाध्यायैः सह with officiating priests and spiritual preceptors, पिता father, माम् addressing me, उक्तवान् has said.

Summary

Tonight, Sita, the officiating priests and preceptors will take to fasting along with me. This is what father told me.

पदच्छेदः

सीतयाप्य्सीता (३.१)–अपि (अव्ययः)
उपवस्तव्याउपवस्तव्य (√उप-वस् + कृत्, १.१)
रजनीयंरजनी (१.१)–इदम् (१.१)
मयामद् (३.१)
सहसह (अव्ययः)
एवम्एवम् (अव्ययः)
ऋत्विगुपाध्यायैःऋत्विज्–उपाध्याय (३.३)
सहसह (अव्ययः)
माम्मद् (२.१)
उक्तवान्उक्तवत् (√वच् + क्तवतु, १.१)
पितापितृ (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

सी याप्यु स्त व्या
नी यं या
मृत्विगु पा ध्या यैः
मा मुक्त वान्पि ता