२.४.४२

इत्येवमुक्तो मात्रेदं रामो भारतमब्रवीत् ।
प्राञ्जलिं प्रह्वमासीनमभिवीक्ष्य स्मयन्निव ॥

अन्वयः

मात्रा by mother, इत्येवम् in this way, उक्तः spoken, रामः Rama, प्रह्वम् in humble manner, प्राञ्जलिम् with folded palms, आसीनम् sitting, भ्रातरम् brother, Lakshmana, अभिवीक्ष्य having looked at, स्मयन्निव as if smiling, इदम् these words, अब्रवीत् said.

Summary

Thus spoken to by his mother, Rama looked at his brother Lakshmana sitting humbly with folded palms and with a smile said to him:

पदच्छेदः

इत्य्इति (अव्ययः)
एवम्एवम् (अव्ययः)
उक्तोउक्त (√वच् + क्त, १.१)
मात्रेदंमातृ (३.१)–इदम् (२.१)
रामोराम (१.१)
भारतम्भारत (२.१)
अब्रवीत्अब्रवीत् (√ब्रू लङ् प्र.पु. एक.)
प्राञ्जलिंप्राञ्जलि (२.१)
प्रह्वम्प्रह्व (२.१)
आसीनम्आसीन (√आस् + क्त, २.१)
अभिवीक्ष्यअभिवीक्ष्य (√अभिवि-ईक्ष् + ल्यप्)
स्मयन्न्स्मयत् (√स्मि + शतृ, १.१)
इवइव (अव्ययः)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

त्ये मु क्तो मा त्रे दं
रा मो भाब्र वीत्
प्राञ्ज लिं प्रह्व मा सी
भि वी क्ष्यस्मन्नि