२.४.४३

लक्ष्मणेमां मया सार्धं प्रशाधि त्वं वसुंधराम् ।
द्वितीयं मेऽन्तरात्मानं त्वामियं श्रीरुपस्थिता ॥

अन्वयः

लक्ष्मण O Lakshmana, मया सार्थम् along with me, त्वम् you, इमाम् this, वसुन्धराम् earth, प्रशाधि rule, मे my, द्वितीयम् second, अन्तरात्मानम् the innermost self, त्वाम् you, इयम् श्रीः this royal fortune, उपस्थिता reached.

Summary

O Lakshmana rule this earth together with me. This royal fortune also accrues to you, for you are my second innermost self.

पदच्छेदः

लक्ष्मणेमांलक्ष्मण–इदम् (२.१)
मयामद् (३.१)
सार्धंसार्धम् (अव्ययः)
प्रशाधिप्रशाधि (√प्र-शास् लोट् म.पु. )
त्वंत्वद् (१.१)
वसुंधराम्वसुंधरा (२.१)
द्वितीयंद्वितीय (२.१)
मेमद् (६.१)
ऽन्तरात्मानंअन्तरात्मन् (२.१)
त्वाम्त्वद् (२.१)
इयंइदम् (१.१)
श्रीर्श्री (१.१)
उपस्थिताउपस्थित (√उप-स्था + क्त, १.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

क्ष्म णे मां या सा र्धं
प्र शा धि त्वं सुं राम्
द्वि ती यं मेऽन्त रा त्मा नं
त्वामि यं श्रीरुस्थि ता