२.४.४४

सौमित्रे भुङ्क्ष्व भोगांस्त्वमिष्टान्राज्यफलानि च ।
जीवितं च हि राज्यं च त्वदर्थमभिकामये ॥

अन्वयः

सौमित्रे O son of Sumitra, त्वम् you, इष्टान् desirable, भोगान् pleasures, राज्यफलानि च fruits of royalty, भुङ्क्ष्व you may enjoy, जीवितं च life also, राज्यं च as well as kingdom, त्वदर्थम् for your sake, अभिकामये हि I am desiring.

Summary

O, son of Sumitra, enjoy all pleasures you wish and the fruits of royalty. I desire this life and kingdom for your sake only.

पदच्छेदः

सौमित्रेसौमित्रि (८.१)
भुङ्क्ष्वभुङ्क्ष्व (√भुज् लोट् म.पु. )
भोगांस्भोग (२.३)
त्वम्त्वद् (१.१)
इष्टान्इष्ट (√इष् + क्त, २.३)
राज्यफलानिराज्य–फल (२.३)
(अव्ययः)
जीवितंजीवित (२.१)
(अव्ययः)
हिहि (अव्ययः)
राज्यंराज्य (२.१)
(अव्ययः)
त्वदर्थम्त्वद्–अर्थ (२.१)
अभिकामयेअभिकामये (√अभि-कामय् लट् उ.पु. )

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

सौ मि त्रे भुङ्क्ष्व भो गांस्त्व
मि ष्टा न्राज्य लानि
जीवि तंहि रा ज्यं
त्वर्थभि का ये