२.४.५

द्वाःस्थैरावेदितं तस्य रामायागमनं पुनः ।
श्रुत्वैव चापि रामस्तं प्राप्तं शङ्कान्वितोऽभवत् ॥

अन्वयः

पुनः again, तस्य his, आगमनम् arrival, द्वाः स्धैः by doorkeepers, रामाय to Rama, आवेदितम् was reported, तम् him, प्राप्तम् had arrived, श्रुत्वा एव on listening, रामः Rama, शङ्कान्वितः अभवत् was filled with apprehensions.

Summary

The doorkeepers informed Rama of Sumantra's arrival. As soon as he learnt that Sumantra was back again, Rama was filled with apprehensions.

पदच्छेदः

द्वाःस्थैर्द्वाःस्थ (३.३)
आवेदितंआवेदित (√आ-वेदय् + क्त, १.१)
तस्यतद् (६.१)
रामायागमनंराम (४.१)–आगमन (१.१)
पुनःपुनर् (अव्ययः)
श्रुत्वैवश्रुत्वा (√श्रु + क्त्वा)–एव (अव्ययः)
चापि (अव्ययः)–अपि (अव्ययः)
रामस्राम (१.१)
तंतद् (२.१)
प्राप्तंप्राप्त (√प्र-आप् + क्त, २.१)
शङ्कान्वितोशङ्का–अन्वित (१.१)
ऽभवत्अभवत् (√भू लङ् प्र.पु. एक.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

द्वाः स्थै रा वेदि तंस्य
रा मा या नंपु नः
श्रु त्वै चापि रा स्तं
प्रा प्तं ङ्कान्वि तोऽभ वत्