२.४.७

तमुवाच ततः सूतो राजा त्वां द्रष्टुमिच्छति ।
श्रुत्वा प्रमाणमत्र त्वं गमनायेतराय वा ॥

अन्वयः

ततः thereafter, सूतः charioteer, तम् addressing him, उवाच spoke, राजा king, त्वाम् you, द्रष्टुम् to see, इच्छति desires, श्रुत्वा having heard, अत्र in this matter, गमनाय either to go, इतराय वा or otherwise, त्वम् you alone, प्रमाणम् are the authority.

Summary

Then Sumantra replied, 'The king desires to see you. To go or not to go, the decision is yours'.

पदच्छेदः

तम्तद् (२.१)
उवाचउवाच (√वच् लिट् प्र.पु. एक.)
ततःततस् (अव्ययः)
सूतोसूत (१.१)
राजाराजन् (१.१)
त्वांत्वद् (२.१)
द्रष्टुम्द्रष्टुम् (√दृश् + तुमुन्)
इच्छतिइच्छति (√इष् लट् प्र.पु. एक.)
श्रुत्वाश्रुत्वा (√श्रु + क्त्वा)
प्रमाणम्प्रमाण (२.१)
अत्रअत्र (अव्ययः)
त्वंत्वद् (१.१)
गमनायेतरायगमन (४.१)–इतर (४.१)
वावा (अव्ययः)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

मु वा तः सू तो
रा जा त्वां द्रष्टु मिच्छति
श्रु त्वाप्र मा त्र त्वं
ना ये रा वा