२.४.८

इति सूतवचः श्रुत्वा रामोऽथ त्वरयान्वितः ।
प्रययौ राजभवनं पुनर्द्रष्टुं नरेश्वरम् ॥

अन्वयः

इति thus, सूतवचः words of the charioteer, श्रुत्वा having heard, रामः Rama, अथ afterwards, त्वरया with haste, अन्वितः seized, नरेश्वरम् king, पुनः again, द्रष्टुम् to see, राजभवनम् to royal palace, प्रययौ departed.

Summary

On hearing the words of the charioteer, Rama immediately set out for the royal palace to see the king again.

पदच्छेदः

इतिइति (अव्ययः)
सूतवचःसूत–वचस् (२.१)
श्रुत्वाश्रुत्वा (√श्रु + क्त्वा)
रामोराम (१.१)
ऽथअथ (अव्ययः)
त्वरयान्वितःत्वरा (३.१)–अन्वित (१.१)
प्रययौप्रययौ (√प्र-या लिट् प्र.पु. एक.)
राजभवनंराजन्–भवन (२.१)
पुनर्पुनर् (अव्ययः)
द्रष्टुंद्रष्टुम् (√दृश् + तुमुन्)
नरेश्वरम्नरेश्वर (२.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

ति सू चः श्रु त्वा
रा मो ऽथत्व यान्वि तः
प्र यौ रा नं
पु र्द्र ष्टुं रेश्व रम्