२.४०.१४

वहन्तो जवना रामं भो भो जात्यास्तुरंगमाः ।
निवर्तध्वं न गन्तव्यं हिता भवत भर्तरि ।
उपवाह्यस्तु वो भर्ता नापवाह्यः पुराद्वनम् ॥

अन्वयः

रामम् Rama, वहन्तः conveying, जवनाः swift, जात्याः of noble breed, भो भो तुरङ्गमाः O horses, निवर्तध्वम् turn back, न गन्तव्यम् do not proceed, भर्तरि in your master (Rama), हिताः भवत be good.

M N Dutt

O you fleet coursers boasting of exalted extraction that bear Rāma away, do you desist, do not go; do you do even what is for the good of your master.

Summary

O horses of noble breed, turn back Do not carry your master swiftyly any farther. Do good to him.

पदच्छेदः

वहन्तोवहत् (√वह् + शतृ, १.३)
जवनाजवन (१.३)
रामंराम (२.१)
भोभो (अव्ययः)
भोभो (अव्ययः)
जात्यास्जात्य (८.३)
तुरंगमाःतुरंगम (८.३)
निवर्तध्वंनिवर्तध्वम् (√नि-वृत् लोट् म.पु. द्वि.)
(अव्ययः)
गन्तव्यंगन्तव्य (√गम् + कृत्, १.१)
हिताहित (१.३)
भवतभवत (√भू लोट् म.पु. द्वि.)
भर्तरिभर्तृ (७.१)
उपवाह्यस्उपवाह्य (√उप-वह् + कृत्, १.१)
तुतु (अव्ययः)
वोत्वद् (६.३)
भर्ताभर्तृ (१.१)
नापवाह्यः (अव्ययः)–अपवाह्य (√अप-वाहय् + कृत्, १.१)
पुराद्पुर (५.१)
वनम्वन (२.१)

छन्दः

उपजातिः [११]

छन्दोविश्लेषणम्

१०१११२
न्तो ना रा मं भो भो जा त्या
स्तु रं माःनि र्त ध्वं न्त व्यं
हि तार्तरि वाह्य
स्तु वो र्ता ना वा ह्यःपु राद्व नम्