२.४०.१८

गच्छन्तमेव तं दृष्ट्वा रामं संभ्रान्तमानसाः ।
ऊचुः परमसंतप्ता रामं वाक्यमिदं द्विजाः ॥

अन्वयः

द्विजाः brahmins, गच्छन्तमेव thus going, तं रामम् that Rama, दृष्ट्वा having seen, सम्भ्रान्तचेतसः with agitated mind, परमसन्तप्ताः deeply distressed, इदं वाक्यम् these words, ऊचुः said.

M N Dutt

Seeing him thus going, the Brāhamaņas with agitated hearts, and burning in grief, addressed Rāma in these words.

Summary

Having seen Rama thus going towards the forest, those brahmins, highly agitated and distressed, said to him:

पदच्छेदः

गच्छन्तम्गच्छत् (√गम् + शतृ, २.१)
एवएव (अव्ययः)
तंतद् (२.१)
दृष्ट्वादृष्ट्वा (√दृश् + क्त्वा)
रामंराम (२.१)
संभ्रान्तमानसाःसंभ्रान्त (√सम्-भ्रम् + क्त)–मानस (१.३)
ऊचुःऊचुः (√वच् लिट् प्र.पु. बहु.)
परमसंतप्तापरम–संतप्त (√सम्-तप् + क्त, १.३)
रामंराम (२.१)
वाक्यम्वाक्य (२.१)
इदंइदम् (२.१)
द्विजाःद्विज (१.३)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

च्छन्त मे तं दृ ष्ट्वा
रा मं सं भ्रान्त मा साः
चुः सं प्ता
रा मं वाक्यमि दंद्वि जाः