२.४०.२३

हृदयेष्ववतिष्ठन्ते वेदा ये नः परं धनम् ।
वत्स्यन्त्यपि गृहेष्वेव दाराश्चारित्ररक्षिताः ॥

अन्वयः

नः our, परं धनम् greatest wealth, ये those, वेदाः the Vedas, हृदयेष्वेव in our hearts, तिष्ठन्ति are remaining, दारा अपि our wives also, चारित्ररक्षिताः protected by fidelity, गृहेष्वेव at home, वत्स्यन्ति shall stay.

M N Dutt

That best of treasurers, the Vedas, resides in our bosoms; and our wives protected by their chastity shall abide in our homes.

Summary

The Vedas are our greatest wealth and they reside in our hearts. Our wives, protected by their fidelity, shall stay at home.

पदच्छेदः

हृदयेष्व्हृदय (७.३)
अवतिष्ठन्तेअवतिष्ठन्ते (√अव-स्था लट् प्र.पु. बहु.)
वेदावेद (१.३)
येयद् (१.३)
नःमद् (६.३)
परंपर (१.१)
धनम्धन (१.१)
वत्स्यन्त्य्वत्स्यन्ति (√वस् लृट् प्र.पु. बहु.)
अपिअपि (अव्ययः)
गृहेष्व्गृह (७.३)
एवएव (अव्ययः)
दाराश्दार (१.३)
चारित्ररक्षिताःचारित्र–रक्षित (√रक्ष् + क्त, १.३)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

हृ येष्व ति ष्ठ न्ते
वे दा ये नः रं नम्
त्स्यन्त्यपिगृ हे ष्वे
दा रा श्चा रित्रक्षि ताः