२.४०.३०

एवं विक्रोशतां तेषां द्विजातीनां निवर्तने ।
ददृशे तमसा तत्र वारयन्तीव राघवम् ॥

अन्वयः

एवम् in this way, निवर्तने seeking his return, तेषां द्विजातीनाम् those brahmins, विक्रोशताम् crying, तत्र there, तमसा Tamasa river, राघवम् Rama, वारयन्तीव as if preventing, ददृशे appeared.

M N Dutt

While the Brāhmaṇas were loudly demanding the return of Rāma, he found the darkness to descend as if forbidding him.

Summary

While those brahmins were thus crying out, river Tamasa came into view as if seeking Rama to turn back to Ayodhya.

पदच्छेदः

एवंएवम् (अव्ययः)
विक्रोशतांविक्रोशत् (√वि-क्रुश् + शतृ, ६.३)
तेषांतद् (६.३)
द्विजातीनांद्विजाति (६.३)
निवर्तनेनिवर्तन (७.१)
ददृशेददृशे (√दृश् लिट् प्र.पु. एक.)
तमसातमस् (३.१)
तत्रतत्र (अव्ययः)
वारयन्तीववारयन्ति (√वारय् लट् प्र.पु. बहु.)–इव (अव्ययः)
राघवम्राघव (२.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

वं वि क्रो तां ते षां
द्वि जा ती नांनिर्त ने
दृ शे सात्र
वा न्ती रा वम्