२.४१.२३

सूतस्ततः संत्वरितः स्यन्दनं तैर्हयोत्तमैः ।
योजयित्वाथ रामाय प्राञ्जलिः प्रत्यवेदयत् ॥

अन्वयः

ततः thereupon, सः सूतः that charioteer (Sumantra), त्वरितः in haste , स्यन्दनम् the chariot, तैः those, हयोत्तमैः splendid horses, योजयित्वा having harnessed, अथ and, प्राञ्जलिः with folded palms, रामाय for Rama, प्रत्यवेदयत् informed.

M N Dutt

Thereupon the charioteer bestirring himself, yoking the excellent horses to the car, said to Rāma with joined hands.

Summary

Thereupon the charioteer hurriedly harnessed the splendid horses to the chariot and informed Rama with folded hands:

पदच्छेदः

सूतस्सूत (१.१)
ततःततस् (अव्ययः)
संत्वरितःसंत्वरित (√सम्-त्वर् + क्त, १.१)
स्यन्दनंस्यन्दन (२.१)
तैर्तद् (३.३)
हयोत्तमैःहय–उत्तम (३.३)
योजयित्वाथयोजयित्वा (√योजय् + क्त्वा)–अथ (अव्ययः)
रामायराम (४.१)
प्राञ्जलिःप्राञ्जलि (१.१)
प्रत्यवेदयत्प्रत्यवेदयत् (√प्रति-वेदय् लङ् प्र.पु. एक.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

सूस्त तः संत्वरि तः
स्यन्द नं तैर्ह योत्त मैः
यो यि त्वा रा मा
प्राञ्ज लिः प्रत्य वे यत्