२.४१.५

भरतः खलु धर्मात्मा पितरं मातरं च मे ।
धर्मार्थकामसहितैर्वाक्यैराश्वासयिष्यति ॥

अन्वयः

धर्मात्मा righteous, भरतः Bharata, धर्मार्थकामसहितैः with dharma, artha and kama, वाक्यैः words, मे my, पितरम् father, मातरं च and mother, आश्वासयिष्यति खलु will console indeed.

M N Dutt

But surely the virtuous Bharata will console our father and mother with words fraught with virtuc, interest and profit.

Summary

Righteous Bharata will indeed console parents with words in conformity with dharma, artha and kama.

पदच्छेदः

भरतःभरत (१.१)
खलुखलु (अव्ययः)
धर्मात्माधर्म–आत्मन् (१.१)
पितरंपितृ (२.१)
मातरंमातृ (२.१)
(अव्ययः)
मेमद् (६.१)
धर्मार्थकामसहितैर्धर्म–अर्थ–काम–सहित (३.३)
वाक्यैर्वाक्य (३.३)
आश्वासयिष्यतिआश्वासयिष्यति (√आ-श्वासय् लृट् प्र.पु. एक.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

तःलु र्मा त्मा
पि रं मा रं मे
र्मार्थ काहि तै
र्वा क्यै रा श्वा यिष्यति