२.४१.८

अद्भिरेव तु सौमित्रे वत्स्याम्यद्य निशामिमाम् ।
एतद्धि रोचते मह्यं वन्येऽपि विविधे सति ॥

अन्वयः

सौमित्रे O Lakshmana, अद्य today, इमां निशाम् this night, अद्भिरेव with water only, वत्स्यामि I will live, विविधे different kinds, वन्ये forest products, सत्यपि available, एतत् this one, मह्यम् to me, रोचते हि is my preference.

M N Dutt

foremost of men, that you have followed me in what is your duty. (If you had not done so), I should have to seek elsewhere for the protection of Vaidehī.

Summary

O Lakshmana, I shall live this night on water alone. I prefer it, though various kinds of forest products are available.

पदच्छेदः

अद्भिर्अप् (३.३)
एवएव (अव्ययः)
तुतु (अव्ययः)
सौमित्रेसौमित्रि (८.१)
वत्स्याम्य्वत्स्यामि (√वस् लृट् उ.पु. )
अद्यअद्य (अव्ययः)
निशाम्निशा (२.१)
इमाम्इदम् (२.१)
एतद्धिएतद् (१.१)–हि (अव्ययः)
रोचतेरोचते (√रुच् लट् प्र.पु. एक.)
मह्यंमद् (४.१)
वन्येवन्य (७.१)
ऽपिअपि (अव्ययः)
विविधेविविध (७.१)
सतिसत् (√अस् + शतृ, ७.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

द्भि रेतु सौ मि त्रे
त्स्या म्यद्यनि शामि माम्
द्धि रो ते ह्यं
न्येऽपिविवि धेति