२.४२.१२

विदर्शयन्तो विविधान्भूयश्चित्रांश्च निर्झरान् ।
पादपाः पर्वताग्रेषु रमयिष्यन्ति राघवम् ॥

पदच्छेदः

विदर्शयन्तोविदर्शयत् (√वि-दर्शय् + शतृ, १.३)
विविधान्विविध (२.३)
भूयश्भूयस् (अव्ययः)
चित्रांश्चित्र (२.३)
(अव्ययः)
निर्झरान्निर्झर (२.३)
पादपाःपादप (१.३)
पर्वताग्रेषुपर्वत–अग्र (७.३)
रमयिष्यन्तिरमयिष्यन्ति (√रमय् लृट् प्र.पु. बहु.)
राघवम्राघव (२.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

विर्श न्तोविवि धा
न्भू श्चि त्रांश्च निर्झ रान्
पा पाःर्व ता ग्रेषु
यि ष्यन्ति रा वम्